(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.16. अध्यायः 016
Mahabharata - Adi Parva - Chapter Topics
आस्तीकाख्यानविस्तरः॥ 1 ॥ कद्रूविनतयोः कश्यपाद्वरलाभः॥ 2 ॥
कद्र्वाः सर्पोत्पत्तिर्विनताया अरुणोत्पत्तिश्च॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

शौनक उवाच। 1-16-0x(71)(1133)
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
आस्तीकस्य कवेःसाधोः शुश्रूषा परमा हिनः॥ 1-16-1(1134)
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2(1135)
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाऽऽक्यानं पिता तेत्वं तथा वद॥ 1-16-3(1136)
सौतिरुवाच। 1-16-4x(72)
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4(1137)
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5(1138)
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6(1139)
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते॥ 1-16-7(1140)
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8(1141)
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9(1142)
तस्यै भर्ता वरं प्रादादीदृसौ ते भविष्यतः।
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10(1143)
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11(1144)
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः॥ 1-16-12(1145)
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्। 1-16-13(1146)
सौतुरिवाच।
कालेन महता कद्रूरण्डानां दशतीर्दश॥ 1-16-13x(73)
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा।
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः॥ 1-16-14(1147)
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च।
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः॥ 1-16-15(1148)
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत।
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी॥ 1-16-16(1149)
अण्डं बिभेद विनता तत्र पुत्रमपश्यत।
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता॥ 1-16-17(1150)
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया॥ 1-16-18(1151)
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि।
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह॥ 1-16-19(1152)
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति।
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्॥ 1-16-20(1153)
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया॥ 1-16-21(1154)
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः।
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः॥ 1-16-22(1155)
अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा।
`उद्यन्नथ सहस्रांशुर्दृष्ट्वा तमरुणं प्रभुः॥ 1-16-23(1156)
स्वतेजसा प्रज्वलन्तमात्मनः समतेजसम्।
सारथ्ये कल्पयामास प्रीयमाणस्तमोनुदः॥ 1-16-24(1157)
सोऽपि तं रथमारुह्य भानोरमिततेजसः।
सर्वलोकप्रदीपस्य ह्यमरोऽप्यरुणोऽभवत्॥' 1-16-25(1158)
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः।
स जातमात्रो विनतां परित्यज्य खमाविशत्॥ 1-16-26(1159)
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ ॥ 1-16-27(1160)

इति श्रीमन्महाभारते आदिपर्वाणि आस्तीकपर्वणि षोडशोऽध्यायः॥ 16 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-16-15 सोपस्वेदेषु ऊष्मवत्सु॥ षोडशोऽध्यायः॥ 16 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.